Prasna Upanishad

MOOL MANTRA

।।इति पञ्चमः प्रश्नः।।
षष्ठ प्रश्न
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ। भगवन्हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत। षोडशकलं भारद्वाज पुरूषं वेत्थ। तमहं कुमारमब्रुवं नाहमिमं वेद। यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति। समूलो वा एष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हाम्यनृतं वक्तुम्। स तूष्णीं रथमारूह्य प्रवव्राज। तं त्वा पृच्छामि क्वासौ पुरूष इति।।6.1.1।।